मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् २

संहिता

न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः ।
य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥

पदपाठः

न । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः ।
यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

यं सुशिप्रमिन्द्रं दुध्राः दुर्धरा असुरादयो नवरन्ते नवारयन्ति संग्रामे तथा स्थिराः देवानवरन्ते किंच मुरो मनणस्वभावा मनुष्याः नवरन्ते अंधसः अन्नस्य मदे मदाय सोमपानजनिताय आदृत्य यः शरामानाय संसमानाय सुन्वते अभिषवं कुर्वते जरित्रे स्तोत्रेच दाता भवति किं उक्थ्यं स्तुत्यं धनं सरेजयतीत्युत्तरत्र संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८