मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ३

संहिता

यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ ।
स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥

पदपाठः

यः । श॒क्रः । मृ॒क्षः । अश्व्यः॑ । यः । वा॒ । कीजः॑ । हि॒र॒ण्ययः॑ ।
सः । ऊ॒र्वस्य॑ । रे॒ज॒य॒ति॒ । अप॑ऽवृतिम् । इन्द्रः॑ । गव्य॑स्य । वृ॒त्र॒ऽहा ॥

सायणभाष्यम्

यः शक्रइन्द्रः स्तोतॄणां मृक्षः शोधकः परिवरणीयोवा यश्च अश्व्यः अश्वकुशलः अश्व्यः । अथवाश्व्यइति स्वार्थिकोयत् मृक्षोश्वः प्रक्षालितोश्वइव वर्तते । योवा कीजः कीजइत्यद्भुतमाह किमस्य कथं जातं इतिच यश्च हिरण्ययः हिरण्मयशरीरः सएवमाश्चर्यभूतइन्द्रोवृत्रहा गब्यस्य गोसमुहस्य कीदृशस्य ऊर्वस्य बहुलस्य अपावृतिं अपवरणीयं रेजयति कम्पयतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८