मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ४

संहिता

निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।
व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्र॒ः क्रत्वा॒ यथा॒ वश॑त् ॥

पदपाठः

निऽखा॑तम् । चि॒त् । यः । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । उत् । इत् । वप॑ति । दा॒शुषे॑ ।
व॒ज्री । सु॒ऽशि॒प्रः । हरि॑ऽअश्वः । इत् । क॒र॒त् । इन्द्रः॑ । क्रत्वा॑ । यथा॑ । वश॑त् ॥

सायणभाष्यम्

निशातंचित् भूमौखात्वा स्थापितमतिसंभृतं संगृहीतं यागदानादिकं कृत्वा ईदृशं पुरुबहु वसु धनं उदिद्वपति उद्वपत्येव दाशुषे यजमानाय एवम् । योदेवःकरत् करोति सवज्री सुशिप्रः सुहनुः हर्यश्वइत् हरितवर्णाश्वयुक्त इन्द्रएव करोति केनोपाधिना कत्वा कर्मणा यागेनोपाधिना यथाव- शत् येनप्रकारेण कामयते तथासएव करोति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८