मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ५

संहिता

यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् ।
व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥

पदपाठः

यत् । व॒वन्थ॑ । पु॒रु॒ऽस्तु॒त॒ । पु॒रा । चि॒त् । शू॒र॒ । नृ॒णाम् ।
व॒यम् । तत् । ते॒ । इ॒न्द्र॒ । सम् । भ॒रा॒म॒सि॒ । य॒ज्ञम् । उ॒क्थम् । तु॒रम् । वचः॑ ॥

सायणभाष्यम्

हे पुरुष्टुत बहुभिः स्तुतेन्द्र शूर विक्रान्त नृणां नेतॄणां स्तोतॄणां सकाशात् पुराचिदित्युपमार्थे । तथेदानीमपि यद्ववन्थ अचीकमथ तदेव वयं तुरं तूर्णं ते तुभ्यं हे इन्द्र संभरामसि संभरामः । किन्तदित्युच्यते-यज्ञं यागयोग्यं हविः उक्थं शस्त्रं वचः वाच्यं तव प्रियतमं हविः स्तोत्रंच संभरामे- त्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८