मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ६

संहिता

सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।
त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठ॑ः सुन्व॒ते भुवः॑ ॥

पदपाठः

सचा॑ । सोमे॑षु । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ।
त्वम् । इत् । हि । ब्र॒ह्म॒ऽकृते॑ । काम्य॑म् । वसु॑ । देष्ठः॑ । सु॒न्व॒ते । भुवः॑ ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूत हे वज्रिवः वज्रवन् द्युक्षा द्युमन् सोमपाः सोमस्यपातस्त्वं सोमेष्वभिषुतेषु मदाय सचा सह भवेतिशेषः त्वमित्त्वमेव ब्रह्मकृते स्तोत्रकर्त्रे सुन्वतेच काम्यं कमनीयं वसु धनं देष्ठोदातृतमो भुवोभवसि । हिपूरणः ॥ ६ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे वयमेनमिति वैकल्पिकोनुरूपः तथाचसूत्रितम्-वयमेनमिदात्द्योयोराजाचर्षणीनामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९