मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ८

संहिता

वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।
सेमं न॒ः स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥

पदपाठः

वृकः॑ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒ऽमथिः॑ । आ । व॒युने॑षु । भू॒ष॒ति॒ ।
सः । इ॒मम् । नः॒ । स्तोम॑म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र॑ । प्र । चि॒त्रया॑ । धि॒या ॥

सायणभाष्यम्

वृकश्चित् स्तेनोपि वारणो वारयिता सर्वस्य सन्नपि उरामथिः शत्रूणां मार्गे गच्छतां प्रथिता सन्नपि अस्येन्द्रस्य वयुनेषु मार्गेषु प्रज्ञानेषु वा आभूष- ति आनुकुल्यमेव भजते अतीव हिंस्रोपीन्द्रस्यानुकूलोभवतीत्यर्थः । यद्वा अस्येति कर्मणि षष्ठी अमुमिन्द्रंउक्तरूपः वृकोपि वयुनेषु स्तोत्रेषु आभुषति सत्वमिमं नः स्तोमं जुजुषाणः प्रीयमाणः आगहि आगच्छ । हे इन्द्र चित्रया धिया कर्मणा स्तुतिलक्षणेन निमित्तेन प्र प्रकर्षेनागहि शीघ्रमागच्छ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९