मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् १०

संहिता

कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षी॒ः कदु॑ वृत्र॒घ्नो अस्तृ॑तम् ।
इन्द्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥

पदपाठः

कत् । ऊं॒ इति॑ । म॒हीः । अधृ॑ष्टाः । अ॒स्य॒ । तवि॑षीः । कत् । ऊं॒ इति॑ । वृ॒त्र॒ऽघ्नः । अस्तृ॑तम् ।
इन्द्रः॑ । विश्वा॑न् । बे॒क॒ऽनाटा॑न् । अ॒हः॒ऽदृशः॑ । उ॒त । क्रत्वा॑ । प॒णीन् । अ॒भि ॥

सायणभाष्यम्

कदु कदाखल्वस्येन्द्रस्य तविषीर्बलानि महीः महान्ति अधृष्टाः अधृष्टान्यधर्षकान्यासन् कदु कदानु खलु वृत्रघ्नो वृत्रहन्तुरिन्द्रस्य हन्तव्यमस्तृतं अहिंसितं अभवत् नकदाचिदित्यर्थः । अथवास्य महान्ति बलानि सेनालक्षणानि कदाप्यधृष्टानि अन्यबलैरहिंसितानि तथा वृत्रघ्नः शारीरं बलं अस्तृतमन्यैरहिंस्यं ईदृशेन द्विविधेन बलेनेन्द्रोविश्वान् सर्वान् बेकनाटान् अनेन कुसीदिनोवृद्धिजीविनो वार्धुषिकाउच्यन्ते कथंतद्मुत्पत्तिः वेइति अपभ्रंशोद्विशब्दार्थे एकं कार्षापणमृणिकायप्रयच्छन् द्वौमह्यंदातव्यौ नयेनदर्शयति ततोद्विशब्देनैकशब्देनच नाटयन्तीति बेकनाटाः तान- हर्दृशः अहःशब्देन तदुत्पादक आदित्योभिधेयोभवति तंपश्यन्तीत्यहर्दृशः । ननु सर्वे सूर्यं पश्यन्ति कोत्रातिशयइति उच्यते इहैवजन्मनि सूर्यं पश्य- न्ति नजन्मान्तरे लुब्धका अयष्टारोन्धे तमसि मज्जन्ति । अथवा लौकिकान्येवाहानि पश्यन्ति पारलौकिकान्यदृष्टानि दृष्टप्रधानाहिनास्तिकाः अतः- ईदृशान् पणीन् पणिसदृशान् शूद्रकल्पान् उतशब्दएवार्थे क्रत्वोत कर्मणैव ताडनादिव्यापारेणैवाभिभवतीतिशेषः । यद्वा पणीनुत पणीनेवाभिभव- ति न यष्टारम् । पणीनां निन्दास्मर्यते-गोरक्षकानापणिकांस्तथाचकारुशीलकान् । प्रेष्यान्वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् इति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९