मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ११

संहिता

व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् ।
पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥

पदपाठः

व॒यम् । घ॒ । ते॒ । अपू॑र्व्या । इन्द्र॑ । ब्रह्मा॑णि । वृ॒त्र॒ऽह॒न् ।
पु॒रु॒ऽतमा॑सः । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । भृ॒तिम् । न । प्र । भ॒रा॒म॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र वयंघ खलु ते तव अपूर्व्या नूतनानि ब्रह्माणि परिवृढानि स्तोत्राणि प्रभरामसि संभरामः पुरुतमासो बहुतमा वयं ऋत्विग्यजमानरूपेण वृत्रहन् वृत्रस्यहन्तः पुरुहूत बहुभिराहूत हे वज्रिवः वज्रयुक्तेन्द्र किमिव भृतिंन भृतिमिव तां यथा नियमेन प्रयच्छन्ति तद्वत् नियमेन प्रदानता- त्पर्याद्भृतिदृष्टान्तत्वमविरुद्धम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५०