मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् १२

संहिता

पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तयः॑ ।
ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥

पदपाठः

पू॒र्वीः । चि॒त् । हि । त्वे इति॑ । तु॒वि॒ऽकू॒र्मि॒न् । आ॒ऽशसः॑ । हव॑न्ते । इ॒न्द्र॒ । ऊ॒तयः॑ ।
ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । शवि॑ष्ठ । श्रु॒धि । मे॒ । हव॑म् ॥

सायणभाष्यम्

हे तुविकूर्मिन् बहुकर्मन्निन्द्र त्वे त्वयि पूर्वीः चिद्धीतिपूरणौ बहूनि आशसः आशंसनानि स्थितानि तथा ऊतयो रक्षाश्च त्वयि अवस्थिता लब्धुं हवन्ते आह्वयन्ति स्तोतारोन्ये अतोर्योरेः सवना सवनानि तिरश्चित् तिरस्कृत्य अरीन्वा तिरस्कृत्यास्मत्सवनान्यभिलक्ष्य हे वसो वासकेन्द्र आगह्यागच्छ अतो हे शविष्ठातिशयेन बलवन् मे हवं श्रुधि शृणु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५०