मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् १५

संहिता

सोम॒ इद्व॑ः सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।
अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥

पदपाठः

सोमः॑ । इत् । वः॒ । सु॒तः । अ॒स्तु॒ । कल॑यः । मा । बि॒भी॒त॒न॒ ।
अप॑ । इत् । ए॒षः । ध्व॒स्मा । अ॒य॒ति॒ । स्व॒यम् । घ॒ । ए॒षः । अप॑ । अ॒य॒ति॒ ॥

सायणभाष्यम्

सोमः सुतोभिषुतः वि युष्माकं सम्बन्धी अस्त्वित् भवत्वेवेन्द्राय हे कलयः कलिमहर्षेर्ज्ञातयः पुत्राश्चात्र संबोध्यन्ते यूयं माबिभीतन भीता माभवत । भीत्यभावे कारणमाह-एषध्वस्मा ध्वंसको राक्षसादिरपेदयति अपगच्छत्येवेन्द्रसामर्थ्यात्स्वयंघ स्वयमेवैषः अपअयति इदितिपूरणः पुनरुक्तिर्दा- र्ढ्यार्था ॥ १५ ॥

त्यान्न्वित्येकविंशर्चमष्टमं सूक्तम् । अत्रानुक्रमणिका-त्यान्नुसैका मत्स्यः सांमदो मैत्रावरुणिर्मान्योवा बहवोवा मत्स्याजालनद्धा आदित्यानस्तु- वन् समदाख्यस्य महामीनस्यपुत्रो मत्स्यः यद्वा मित्रावरुणयोः पुत्रोमान्यः अथवा बहवोवा मत्स्याजालनद्धाः सन्तो बन्धनमोक्षायादित्यमस्तुवन् अतस्तएव ऋषयः । परंगायत्रं प्राग्वत्सप्रेरिति परिभाषया गायत्रीछन्दः आदित्या देवता सूक्तविनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५०