मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १२

संहिता

अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।
कृ॒धि तो॒काय॑ जी॒वसे॑ ॥

पदपाठः

अ॒ने॒हः । नः॒ । उ॒रु॒ऽव्र॒जे॒ । उरू॑चि । वि । प्रऽस॑र्तवे ।
कृ॒धि । तो॒काय॑ । जी॒वसे॑ ॥

सायणभाष्यम्

अनेहोऽपापान्नोस्मान् उरुव्रजे विस्तीर्णगमने दूरं इयमदितिर्भूरिरूपा गताभवति अतिविस्तृतत्वात् । अथवा उरुगमने धीरे हे उरूचि उरुत्वं विप्रसर्तवे अभिसरणाय कृधि कुरु । कस्मै नोकाय पुत्राय मत्स्याय जीवसे तस्य जीवनाय यथाजीवनेनापत्यान्रक्षितुं तथा उरु त्वंकुर्विति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५३