मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १

संहिता

आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।
तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥

पदपाठः

आ । त्वा॒ । रथ॑म् । यथा॑ । ऊ॒तये॑ । सु॒म्नाय॑ । व॒र्त॒या॒म॒सि॒ ।
तु॒वि॒ऽकू॒र्मिम् । ऋ॒ति॒ऽसह॑म् । इन्द्र॑ । शवि॑ष्ठ । सत्ऽप॑ते ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

षष्ठेचतुर्थमध्यायं श्रीमायणसुतःसुधीः । व्याख्यायसायणाचार्यः पञ्चमंव्याकरोत्यथ ॥ २ ॥

तत्रात्वारथमित्येकोनविंशर्चं नवमंसूक्तम् । अत्रेयमनुक्रमणिका-आत्वैकोना प्रियमेध आदाबनुष्टुम्मुखास्तृचाश्चत्वारोन्त्याःषळृक्षाश्वमेधयोर्दानस्तु- तिरिति । आंगिरसःप्रियमेधऋषिः । प्रधमाचतुर्थीसप्तमीदशम्योनुष्टुभः शिष्टाःपरंगायत्रमितिपरिभाषया गायत्र्यः अन्ततःषट्स्वृक्षु ऋक्षाश्वमेधयो- र्दानंस्तूयते अतस्तास्तद्देवताकाः । शिष्टाअनुक्तपरिभाषयैन्द्मः । सूक्तविनियोगोलैङ्गिकः । आद्यस्तृचो मरुत्वतीयस्यप्रतिपत् । तथाचसूत्रितम्- आत्वारथंयथोतयइदंवसोसुतमन्धइतिमरुत्वतीयस्यप्रतिपदनुचराविति । महाव्रतादिष्वपि यत्रतृचान्तरंनविधीयते तत्र सर्वत्रायमेव प्रतिपद्भवति ।

हे इन्द्र त्वा त्वां आवर्तयामसि आवर्तयामः । किमर्थं ऊतयेस्माकं रक्षणाय सुम्राय सुखायच । किमिव रथं यथा ऊतये सुखाय चावर्तयन्ति तद्वत् । कीदृशं त्वां तुविकूर्मिं बहुकर्माणं ऋतीषहं हिंसकानामभिभवितारं हे इन्द्र शविष्ठातिशयेनबलवन् हे सत्पते सतां पालक त्वामिति समन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः