मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् २

संहिता

तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।
आ प॑प्राथ महित्व॒ना ॥

पदपाठः

तुवि॑ऽशुष्म । तुवि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो । शची॑ऽवः । विश्व॑या । म॒ते॒ ।
आ । प॒प्रा॒थ॒ । म॒हि॒ऽत्व॒ना ॥

सायणभाष्यम्

हे तुविशुष्म प्रभूतबल हे तुविक्रतो बहुकर्मन् अथवा बहुप्रज्ञ कर्मणः पृथगभिधानात् हे शचीवः बहुकर्मोपेत हे मते पूजनीयेन्द्र विश्वया विश्वव्याप्तेन महित्वना महत्त्वेन आपप्राथ आपूरितवानसि । अविशेषाद्विश्वमित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः