मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ४

संहिता

वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।
एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥

पदपाठः

वि॒श्वान॑रस्य । वः॒ । पति॑म् । अना॑नतस्य । शव॑सः ।
एवैः॑ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा॑नाम् ॥

सायणभाष्यम्

विश्वानरस्य विश्वान् शत्रून् प्रत्यृतस्य अनानतस्य शत्रूणामप्रह्वस्य शवसो बलस्य पतिं स्वामिनमिन्द्रं वा अत्रेन्द्रसंबन्धिनो मरुतोपि संकीर्त्यन्ते हे मरुतो वो युष्माकमित्यर्थः । यद्यपि मरुत् संशब्दनंनास्ति तथापि वइति सामर्थ्याल्लभ्यते । युष्माकं चर्षणीनां सैनिकानां एवैर्गमनैः सह । यद्वा चर्षणीनां इन्द्रस्य सेनारूपाणां वोयुष्माकं गमनैरिति सामानाधिकरण्यं युष्माकं रथानांच ऊती ऊतिभिर्गमनैश्चसह हुवे आह्वयामि । गन्तृभी रथैर्गन्तृभिर्मरुद्भिश्च सहेन्द्रं हुवइत्यर्थः । यद्वा हे यजमाना युष्मदीयाः सैनिकाः सरथा यदा प्रविशन्ति युद्धाय संग्रामं तदानीं तेषां साहाय्या- येन्द्रं हुवे इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः