प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् ।
ईशा॑नं चि॒द्वसू॑नाम् ॥
प॒रःऽमा॑त्रम् । ऋची॑षमम् । इन्द्र॑म् । उ॒ग्रम् । सु॒ऽराध॑सम् ।
ईशा॑नम् । चि॒त् । वसू॑नाम् ॥
परोमात्रं परामात्रा यस्य तादृशं अथवा मीयतइति मात्रं दूरदेशः ततः परस्ताद्वर्तमानं अपरिमितस्वरूपं तथापि ऋचीषमं ऋचा स्तुत्या समं यद्यप्यपरिच्छिन्नस्तथाप्;इ स्तुतिर्यावन्मात्रं विषयीकरोति तत्समइत्यर्थः । तदेवाह इन्द्रं परमैश्वर्ययोगत्वादिच्छानुकूलस्वरूपं उग्रमुद्रूर्णबलं सुराधसं राधइति धननाम शोभनधनं शोभनान्नं वा ईशानं चित् ईश्वरं च । केषां वसूनां अस्मभ्यं प्रदेयानां गवादिधनानां एवं महानुभावमिन्द्रं हुवइतिशेषः ॥ ६ ॥