मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ७

संहिता

तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ ।
यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥

पदपाठः

तम्ऽत॑म् । इत् । राध॑से । म॒हे । इन्द्र॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।
यः । पू॒र्व्याम् । अनु॑ऽस्तुतिम् । ईशे॑ । कृ॒ष्टी॒नाम् । नृ॒तुः ॥

सायणभाष्यम्

तन्तमित्तमेवेन्द्रं सर्वेष्वपि यागकालेषु तमेवेन्द्रमित्यर्थः । तं प्रतिचोदामि प्रेरयामि स्तुतिं पीतये सोमपानाय । ततः कोलाभइति उच्यते-महे महते राधसे धनाय प्रभुतधनलाभार्थं योनृतुः फलस्यनेता देवः पूर्व्यां पूर्वेभवां यज्ञमुखस्थां अनुष्टुतिं अनुक्रमेण क्रियमाणां स्तुतिं कृष्टीनां मनुष्याणां ऋ- त्विजां संबधिनीं ईशे ईष्टे श्रोतुम् । तं चोदामीति संबन्धः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः