मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १०

संहिता

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।
इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥

पदपाठः

तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ ।
इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥

सायणभाष्यम्

तं स्तुत्यत्वेन प्रसिद्धं त्वा त्वां यज्ञेभिर्यागसाधनैः सोमादिभिरीमहे याचामहे तमेवेन्द्रं गीर्भिः स्तुतिभिरीमहे । हे गिर्वणस्तम गीर्भिः स्तुतिभिर्व- ननीयतमेन्द्र तंत्वामिति समन्वयः । हे इन्द्र त्वं यथाचिदाविथ येनप्रकारेण ररक्षिथ मां चिदितिपूरणः । कुत्रेति उच्यते-वाजेषु संग्रामेषु कीदृशं मां पुरुमाय्यं बहुप्रज्ञं बहुस्तुतिमित्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः