मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ११

संहिता

यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।
य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥

पदपाठः

यस्य॑ । ते॒ । स्वा॒दु । स॒ख्यम् । स्वा॒द्वी । प्रऽनी॑तिः । अ॒द्रि॒ऽवः॒ ।
य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥

सायणभाष्यम्

हे अद्रिवो वज्रन्निन्द्र यस्य स्तुत्यत्वेन प्रसिद्धस्य ते तव सख्यं स्वाद्वतीवानुभवार्हम् । किञ्च ते प्रणीतिःप्रणयनं धनादीनां स्वाद्वी स्वादु सुहर्षकं तथोभे त्वद्विषयोयज्ञश्च वितन्तसाय्यो विशेषेण तननीयः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः