उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।
उ॒रु णो॑ यन्धि जी॒वसे॑ ॥
उ॒रु । नः॒ । त॒न्वे॑ । तने॑ । उ॒रु । क्षया॑य । नः॒ । कृ॒धि॒ ।
उ॒रु । नः॒ । य॒न्धि॒ । जी॒वसे॑ ॥
हे इन्द्र त्वं नोस्माकं तन्वे आत्मजाय उरु प्रभूतं कुधि कुरु । सामर्थ्यात् धनं सुखं वेति गम्यते । तथा तने तत्पुत्राय उरु कृधि । तथा क्षयाय निवासाय उरुकृधि नोस्माकं जीवसे जीवनाय यन्धि प्रयच्छाभिमतम् ॥ १२ ॥