मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १३

संहिता

उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् ।
दे॒ववी॑तिं मनामहे ॥

पदपाठः

उ॒रुम् । नृऽभ्यः॑ । उ॒रुम् । गवे॑ । उ॒रुम् । रथा॑य । पन्था॑म् ।
दे॒वऽवी॑तिम् । म॒ना॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र नृभ्योस्मदीयेभ्यो भृत्येभ्यः उरुं हितं मनामहे याचामहे । तथा गवे एतदुपलक्षणं गवाश्वादिकाय तथा रथाय पन्थां पन्थानं मार्गं अथवा नृप्रभृतीनां संचाराय शोभनं मार्गं मनामहे तथा देववीतिं यज्ञं मनामहे ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः