मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १४

संहिता

उप॑ मा॒ षड्द्वाद्वा॒ नर॒ः सोम॑स्य॒ हर्ष्या॑ ।
तिष्ठ॑न्ति स्वादुरा॒तयः॑ ॥

पदपाठः

उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ ।
तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥

सायणभाष्यम्

एतदाद्याः षळृचः ऋक्षाश्वमेधयोर्दानस्तुतिरूपाः यद्यपि बृहद्देवतानुक्रमण्यां-ऋक्षाश्वमेधयोरत्र पञ्चदानप्रशंसका इत्युक्तम् । तथाप्युपमाषळित्य- स्याः राजदानस्तुतिशेषत्वादविरोधः । अनयैवाशया अनुक्रमण्यांअन्त्याः षळृचः ऋक्षाश्वमेधयोर्दानस्तुतिरित्युक्तम् । मामां प्रियमेधं यज्ञे प्रसर्पन्तः षट् एतत्संख्याका नरोनेतारो राजानः सोमस्य पीतस्य हर्ष्या हर्षेण स्वादुरातयः सुष्ठूपभोगार्हदानाः सन्तो द्वाद्वा द्वौद्वौ पितृपुत्ररूपेण युग्मौ भूत्वा मामुपतिष्ठन्ति तेषां युग्मानां नाम तूत्तरत्र स्पष्टीक्रियते ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः