मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १६

संहिता

सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।
आ॒श्व॒मे॒धे सु॒पेश॑सः ॥

पदपाठः

सु॒ऽरथा॑न् । आ॒ति॒थि॒ऽग्वे । सु॒ऽअ॒भी॒शून् । आ॒र्क्षे ।
आ॒श्व॒ऽमे॒धे । सु॒ऽपेश॑सः ॥

सायणभाष्यम्

आतिथिग्वे इन्द्रोते सुरथान् शोभनरथोपेतानश्वान् आददे । आर्क्षे ऋक्षपुत्रे स्वभीशूनश्वानाददे आश्वमेधेश्वमेधपुत्रे सुपेशसः सुरूपान् तान् शोभ- नालंकारान् आददे ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः