मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १७

संहिता

षळश्वाँ॑ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः ।
सचा॑ पू॒तक्र॑तौ सनम् ॥

पदपाठः

षट् । अश्वा॑न् । आ॒ति॒थि॒ऽग्वे । इ॒न्द्रो॒ते । व॒धूऽम॑तः ।
सचा॑ । पू॒तऽक्र॑तौ । स॒न॒म् ॥

सायणभाष्यम्

आतिथिग्वे इन्द्रोते पूतक्रतौ शुद्धप्रज्ञे शुद्धकर्मोपेतेवा तस्मिन् वधूमतोवधूभिर्वडवाभिस्तद्वतः षळश्वान् ऋक्षाश्वमेधयोः पुत्राभ्यां दत्तेनाश्वादिधनेन सचा सह सनं लब्धवानस्मि एतत्साहित्यवचनं इन्द्रोतदानस्य प्रासंगिकत्वे लिंगम् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः