मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १८

संहिता

ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी ।
स्व॒भी॒शुः कशा॑वती ॥

पदपाठः

आ । ए॒षु॒ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी ।
सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥

सायणभाष्यम्

एष्वृज्रेषु ऋजुगामिष्वश्वेषु अन्तर्मध्ये आचेतत् आज्ञायते । का वृषण्वतीवर्षकैः पुमश्वै स्तद्वती । अरुषी आरोचमना स्वभीशुः शोभनप्रग्रहा कशा- वती दृप्ता वडवा ज्ञायते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः