मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १

संहिता

प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे ।
धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥

पदपाठः

प्रऽप्र॑ । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । म॒न्दत्ऽवी॑राय । इन्द॑वे ।
धि॒या । वः॒ । मे॒धऽसा॑तये । पुर॑म्ऽध्या । आ । वि॒वा॒स॒ति॒ ॥

सायणभाष्यम्

हे अध्वर्य्वादयो वो यूयं प्रथमार्थेद्वितीया त्रिष्टुभं स्तोभत्रयोपेतमिषमन्नं प्रप्र अपरः प्रशब्दः पूरणः प्रभरतेतिशेषः उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । कस्मै मन्दद्वीराय योवीरान् हर्षयति समन्दद्वीरः तस्मै इन्दवे इन्द्राय इन्धतेरैश्वर्यकर्मण इदंरूपम् । अथवा फलैर्वृष्टिभिर्वा उनत्तीतीन्दुरिन्द्रस्तस्मै सचेन्द्रो वो युष्मान्मेधसातये यज्ञसंभजनाय पुरन्ध्या बहुप्रज्ञया धिया कर्मणा आविवासति अभिमतफलयोजनेन सत्करोतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः