मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ३

संहिता

ता अ॑स्य॒ सूद॑दोहस॒ः सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥

पदपाठः

ताः । अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।
जन्म॑न् । दे॒वाना॑म् । विशः॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥

सायणभाष्यम्

ताः प्रसिद्धाः सूददोहसः सूदइति कूपनाम तत्सदृशदोहनाः पृश्नयः पृश्निवर्णाः गावोस्येन्द्रस्य सोमं श्रीणन्ति मिश्रयन्त्याशिरेण । कदा त्रिषु त्रिष्व- पि सवनेषु । गावो विशेष्यन्ते देवानां जन्मन् जन्मस्थाने दिवीति शेषः दिवआदित्यस्य आरोचने आरोचमाने अनेन द्यौर्विशेष्यते तस्मिन् स्थाने विशोनिविशन्त्यः । यज्ञार्थोपयुक्तानां गवां द्युप्राप्तिः प्रसिद्धा ॥ ३ ॥ द्वितीयेपर्याये मैत्रावरुणशस्त्रे अभिप्रगोपतिमिति तृचोनुरूपः सूत्रितंच-अभित्वावृषभासुतेभिप्रगोपतिंगिरेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः