मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ५

संहिता

आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।
यत्रा॒भि सं॒नवा॑महे ॥

पदपाठः

आ । हर॑यः । स॒सृ॒ज्रि॒रे॒ । अरु॑षीः । अधि॑ । ब॒र्हिषि॑ ।
यत्र॑ । अ॒भि । स॒म्ऽनवा॑महे ॥

सायणभाष्यम्

हरयो हरितवर्णाअश्वाः अरुषीरारोचमानाः अधिबर्हिषि अधीति सप्तम्यर्थानुवादी बर्हिष्यास्तृते आससृज्रिरे आसृजन्तु यत्र यस्मिन्बर्हिषि स्थित- मिन्द्रमभिसन्नवामहे अभिसंस्तुमः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः