मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ६

संहिता

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
यत्सी॑मुपह्व॒रे वि॒दत् ॥

पदपाठः

इन्द्रा॑य । गावः॑ । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ।
यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥

सायणभाष्यम्

इन्द्राय गावाआशिरं आश्रयणसाधनं पयआदिकं मधु मदकरं दुदुह्रे दुहते । कीदृशाय वज्रिणे वज्रयुक्तायेन्द्राय यद्यदा उपह्वरे समीपेवर्तमानं मधु सोमरसं सीं सर्वतोविदत् लभते तदा ॥ ६ ॥ षोडशिशस्त्रस्योद्यद्ब्रध्नस्येत्येषान्त्या सूत्रितञ्च-उद्यद्ब्रध्नस्यविष्टपमित्येषा परिधानीयेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः