मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ७

संहिता

उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि ।
मध्व॑ः पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्यु॑ः प॒दे ॥

पदपाठः

उत् । यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गृ॒हम् । इन्द्रः॑ । च॒ । गन्व॑हि ।
मध्वः॑ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः॑ । प॒दे ॥

सायणभाष्यम्

यद्यदा ब्रध्नस्य महन्नाम ब्रध्नइति महत आदित्यस्य विष्टपं स्थानं गृहं इन्द्रश्चाहं चोभौ उद्गन्वहि उद्गच्छावः । तदानीं मध्वो मधुरं सोमरसं पीत्वा सचेवहि संसृष्टौ भवेव । कुत्र सख्युःपदे सर्वेषां सखिभूतस्यादित्यस्य त्रिःसप्तेत्यनेन देवलोकानामुत्तममेकविंशस्थानमुच्यते आदित्यस्यैकविंशत्वात् । तथाचब्राह्मणम्-द्वादशमासाःपञ्चर्तवस्त्रयइमेलोका असावादित्यएकविंशइति । तादृशे एकविंशस्थाने सचेवहीति ॥ ७ ॥ पूर्वोक्तएवशस्त्रे अर्चतेतिद्वितीयआनुष्टुभस्तृचः । सूत्रितञ्च-प्रप्रवस्त्रिष्टुभमिषमर्चतप्रार्चतेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः