मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १०

संहिता

आ यत्पत॑न्त्ये॒न्य॑ः सु॒दुघा॒ अन॑पस्फुरः ।
अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥

पदपाठः

आ । यत् । पत॑न्ति । ए॒न्यः॑ । सु॒ऽदुघाः॑ । अन॑पऽस्फुरः ।
अ॒प॒ऽस्फुर॑म् । गृ॒भा॒य॒त॒ । सोम॑म् । इन्द्रा॑य । पात॑वे ॥

सायणभाष्यम्

यद्यदा एन्यः एतवर्णाः शुभ्रवर्णानद्यः आपतन्ति आगच्छन्ति सर्वतः प्रवहन्ति । कीदृश्यः सुदुघाः सुदोहा अनपस्फुरः अपस्फुरो अपस्फुरा अपवृद्धाः अतादृश्यः अनपस्फुरः अत्यन्तंप्रवृद्धाइत्यर्थः । यद्वा सुदुघाः प्रवृद्धा एतवर्णागावो यदा पयआद्यर्थायापतन्ति तदा अपस्फुरं अत्रापशब्दो धात्वर्थानुवादी अत्यन्तं प्रवृद्धं सोममिन्द्राय पातवे पातुं गृभायत ग्रहणंकुरुत । अथवा अनपस्फुरइत्यत्रापशब्दोनुवादी धात्वर्थस्य । तथासत्ययमर्थः-यदाएन्योनद्यः अनपस्फुरः अप्रवृद्धोदका आपतन्ति वृष्टिरल्पा यदाभवति तदा सोममिन्द्रार्थं संपादयतेति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः