मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १२

संहिता

सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः ।
अ॒नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥

पदपाठः

सु॒ऽदे॒वः । अ॒सि॒ । व॒रु॒ण॒ । यस्य॑ । ते॒ । स॒प्त । सिन्ध॑वः ।
अ॒नु॒ऽक्षर॑न्ति । का॒कुद॑म् । सू॒र्म्य॑म् । सु॒षि॒राम्ऽइ॑व ॥

सायणभाष्यम्

हे वरुण जलाभिमानिन् देव त्वं सुदेवोअसि यस्यसुदेवस्य ते तव काकुदं तालु समुद्राख्यं सप्तसिन्धवो गंगाद्याः सप्तनद्योऽनुक्षरन्ति जिह्वायां सर्वदा स्रवन्ति । दृष्टान्तः-सूर्म्यं सुषिरामिव यथा सूर्यं प्रतिरश्मिजालं तद्वत् ॥ १२ ॥ षोडशिशस्त्रे योव्यतीनिति तृतीयआनुष्टुभस्तृचः सूत्रितञ्च-योव्यतीरँफाणयदितितृच आनुष्टुभइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः