मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १३

संहिता

यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ ।
त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥

पदपाठः

यः । व्यती॑न् । अफा॑णयत् । सुऽयु॑क्तान् । उप॑ । दा॒शुषे॑ ।
त॒क्वः । ने॒ता । तत् । इत् । वपुः॑ । उ॒प॒ऽमा । यः । अमु॑च्यत ॥

सायणभाष्यम्

यइन्द्रोव्यतीन् विविधगमनान् सुयुक्तान् सुष्ठुरथे संबद्धान् अश्वान् दाशुषे हविर्दात्रे यजमानाय गन्तुं प्राप्तं उप अफाणयत् उपगमयति फणतिर्गति- कर्मा । यदैवंकरोति तदित् तदानीमेव तक्वः तकतिर्गतिकर्मा यज्ञगमनशीलो नेताउदकस्य फलस्य वा नायक इन्द्रोवपुरुदकं उत्पादयतीतिशेषः यइन्द्रउपमा उपमानभूतः अमुच्यतअन्यैर्वृष्टिनिवरकै रसुरादिभिर्मुक्तोभवति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः