तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥
तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।
अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥
तं घ तं खल्वीमेनमिन्द्रं इत्था इत्थमनेन प्रकारेण नमस्विनोन्नवन्तः स्तुतिमन्तोवाध्वर्य्वादयः स्वराजं स्वयं राजमानं वा उपासते सेवन्ते । तथा कृत्वाअर्थंचित् अरणीयं धनं सुधितं सुष्ठु स्थापितं अस्येन्द्रस्य संबन्धिनं प्राप्नुवन्तीतिशेषः । कदेत्याह-यद्यदा एतवे अस्येन्द्रस्य गमनाय स्वयं प्राप्तुंवा दावने हविर्दानायावर्तयन्ति स्तुतयः तदेत्यर्थः । अथवा अश्वावा आवर्तयन्ति तदेत्यर्थः ॥ १७ ॥