मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् १

संहिता

यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥

पदपाठः

यः । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भिः । अध्रि॑ऽगुः ।
विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठः॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥

सायणभाष्यम्

यइन्द्रश्चर्षणीनां मनुष्याणां राजा स्वामीरथेभिः रथैः याता गन्ताच अध्रिगुरधृतगमनोन्यैः विश्वासां पृतनानां सेनानां तरुता तारकः यश्च ज्येष्ठः गुणैर्ज्यायान् यश्च वृत्रहा वृत्रं हतवान् तं महाभागमिन्द्रं गृणे स्तौमि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः