मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ३

संहिता

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् ।
इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥

पदपाठः

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । यः । च॒कार॑ । स॒दाऽवृ॑धम् ।
इन्द्र॑म् । न । य॒ज्ञैः । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥

सायणभाष्यम्

तं जनं अन्योमर्षकोजनः कर्मण हननादिव्यापारेण नकिर्नशत् नैवव्याप्नोति यइन्द्रं चकार इन्द्रमेवानुकूलं यज्ञैः साधनैः । कीदृशमिन्द्रं सदावृधं सदावर्धकं विश्वगूर्तं सर्वैःस्तुत्यं ऋभ्वसः महान्तं अधृष्टमन्यैः धृष्ण्वोजसं धर्षकबलम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः