मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ५

संहिता

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥

पदपाठः

यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः ।
न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव प्रतिमानार्थं यद्यदि द्यावोद्युलोकाः सत्यंस्युः तथापि नाश्नुवन्ति । उतापिच भूमीर्भूम्यः ते तवमूर्तिप्रतिबिंबाय शतंस्युः तथापि नाश्नुवन्ति । हे वज्रिन् त्वा त्वां सहस्रं सूर्या अगणिताःअपि सूर्योः नानुभवन्ति नप्रकाशयन्तीत्यर्थः । न तत्र सूर्यो भातीतिश्रुतेः । किंबहुना जातं पूर्वमुत्पन्नं किञ्च अनुनाष्ट नाश्नुते । तथा रोदसी द्यावापृथिव्यौ नाश्नुवाते सर्वेभ्योतिरिच्यसइत्यर्थः । ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् ज्यायान् दिवो ज्यायानेभ्योलोकेभ्यईतिश्रुतेः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः