मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ६

संहिता

आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।
अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ॥

पदपाठः

आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ।
अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

हे शविष्ठ मघवन् बलवन् धनवन् हे वृषन् अभिमतवर्षकेन्द्र त्वं आपप्राथ आपूरयसि व्याप्नोषि । कानि विश्वा विश्वानि सर्वाणि वृष्ण्या वर्ष- काणि बलानि शत्रुसंबन्धीनि । केनसाधनेन महिना महता शवसा बलेन स्वीयेन । अथवा वृष्ण्येत्येतच्छवोविशेषणं तथा सति अभिमतवर्ष- केण महता बलेनास्मदीयानि बलानि पूरयसीत्यर्थः । अथ तथाकृत्वा अस्मान्गोमति बहुभिर्गोभिर्युक्ते व्रजे शत्रुसंबन्धिनि निमेत्ते सत्यस्मानव । हे वज्रिन् वज्रयुक्तेन्द्र कैः साधनैः चित्राभिर्नानाविधैरूतिभीरक्षणैरिति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः