मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ७

संहिता

न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्य॑ः ।
एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥

पदपाठः

न । सी॒म् । अदे॑वः । आ॒प॒त् । इष॑म् । दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो । मर्त्यः॑ ।
एत॑ऽग्वा । चि॒त् । यः । एत॑शा । यु॒योज॑ते । हरी॒ इति॑ । इन्द्रः॑ । यु॒योज॑ते ॥

सायणभाष्यम्

हे दीर्घायो नित्येन्द्र सः अदेवः इन्द्राख्यदेवरहितो मर्त्योमरणधर्मा मनुष्यो सीं सर्वमिषमन्नं नापत् नप्राप्नोति । योमर्त्योस्येन्द्रस्य एतग्वाचित् एतवर्णावेवाश्वौ भवतोभिमतदेशगमनाय एतशा एतशौ अश्वौ युयोजते योजयति रथे यज्ञंगन्तुम् यश्चेन्द्रोहरी युयोजते तं न यः स्तौति सनप्राप्नोतीति समन्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः