मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ८

संहिता

तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् ।
यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्य॑ः ॥

पदपाठः

तम् । वः॒ । म॒हः । म॒हाय्य॑म् । इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् ।
यः । गा॒धेषु॑ । यः । आ॒ऽअर॑णेषु । हव्यः॑ । वाजे॑षु । अस्ति॑ । हव्यः॑ ॥

सायणभाष्यम्

हे ऋत्विजो महो महान्तो वो यूयं तं महाय्यं पूज्यं इन्द्रं दानाय सक्षणिं सचमानं परिचरतेतिशेषः । यइन्द्रो गाधेषूदकेषु हव्योस्ति आह्वातव्यो- भवति यश्चारणेषु गन्तव्येषु निम्नेषूदकेषु स्थलेषुवा हव्योस्ति तथा वाजेषु संग्रामेषु जयाय हव्यो ह्वातव्योस्ति भवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः