मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ९

संहिता

उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।
उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥

पदपाठः

उत् । ऊं॒ इति॑ । सु । नः॒ । व॒सो॒ इति॑ । म॒हे । मृ॒शस्व॑ । शू॒र॒ । राध॑से ।
उत् । ऊं॒ इति॑ । सु । म॒ह्यै । म॒घ॒ऽव॒न् । म॒घत्त॑ये । उत् । इ॒न्द्र॒ । श्रव॑से । म॒हे ॥

सायणभाष्यम्

हे वसो वासयितः शूरेन्द्र त्वं नोस्मान् सु सुष्ठु उदुमृशस्व उन्मृशस्वैव उत्थापय किमर्थं महे महते राधसेन्नाय । तथा हे शूर मघवन् इन्द्र उन्मृशस्व मह्यै महते मघत्त्ये धनदानाय तथोन्मृशस्वेन्द्र महे महत्यै श्रवसे कीर्त्यै ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः