मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् १४

संहिता

भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।
यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥

पदपाठः

भूरि॑ऽभिः । स॒म॒ह॒ । ऋषि॑ऽभिः । ब॒र्हिष्म॑त्ऽभिः । स्त॒वि॒ष्य॒से॒ ।
यत् । इ॒त्थम् । एक॑म्ऽएकम् । इत् । शर॑ । व॒त्सान् । प॒रा॒ऽददः॑ ॥

सायणभाष्यम्

हे इन्द्र समह समानपूज सर्वैः पूज्येत्यर्थः भूरिभिर्बहुभिऋषिभिः अतीन्द्रियज्ञैऋत्विग्भिः बर्हिष्मद्भिः यागवद्भिःस्तविष्यसे स्तूयसे यतः यइन्द्र इत्थं एकमेकमित् एकमेकमेव बहून्वत्सान्स्तोतृभ्यः पराददः प्रयच्छसि हे शर हिंसक शत्रोः । अत्र वत्सशब्दो वत्समातॄणां गवां उपलक्षकः गाः प्रयच्छसीति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०