मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् १

संहिता

त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।
उ॒त द्वि॒षो मर्त्य॑स्य ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । महः॑ऽभिः । पा॒हि । विश्व॑स्याः । अरा॑तेः ।
उ॒त । द्वि॒षः । मर्त्य॑स्य ॥

सायणभाष्यम्

हे अग्ने त्वं नोस्मान् महोभिः पूजाभिः महद्भिर्धनैर्वा पाहि रक्ष । कस्य महोभिर्विश्वस्याः बहुविधस्य अरातेरदातुः सकाशात् अदानाद्वा पाहि त्वमेव महद्धनं दत्वा अदातुरदानाद्वा सकाशाद्रक्षेत्यर्थः । यद्वा महोभिर्युक्तस्त्वमिति योज्यम् । उत अपिच द्विषोद्वेष्टुर्मर्त्यस्य मर्त्यात्सकाशात्पाहि अस्मभ्यं बलं दत्वेति भावः । अथवा मर्त्यस्यद्विषो द्वेषाद्रक्षेति संबन्धः । अरातेरित्यस्य अदानादिति पक्षे तत्रापि मर्त्यस्यादानादिति संबन्ध- नीयम् ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११