मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् २

संहिता

न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात ।
त्वमिद॑सि॒ क्षपा॑वान् ॥

पदपाठः

न॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ ।
त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥

सायणभाष्यम्

हे प्रियजात प्रियो यजमानस्तदर्थमुत्पन्न अग्ने वस्तव पौरुषेयः पुरुषसंबन्धी मन्युःक्रोधो नहीशे नेष्टे बाधितुं अस्मदादिभीरक्षितत्वादितिभावः । दिवाचराः खलु पुरुषाः । अतो दिवा तवहानिर्नास्तीतिभावः । अथ रात्रिञ्चरा रक्षःप्रभृतयः तेभ्योपि पीडा नास्तीत्युच्यते त्वमित् त्वमेवखलु क्षपावान् रात्रिमानसि रात्रौ त्द्यग्निर्विशेषेण तेजस्वीभवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११