मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ३

संहिता

स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।
र॒यिं दे॑हि वि॒श्ववा॑रम् ॥

पदपाठः

सः । नः॒ । विश्वे॑भिः । दे॒वेभिः॑ । ऊर्जः॑ । न॒पा॒त् । भद्र॑ऽशोचे ।
र॒यिम् । दे॒हि॒ । वि॒श्वऽवा॑रम् ॥

सायणभाष्यम्

हे अग्ने सः स्तुत्यस्त्वं नोस्मभ्यं विश्वेभिः देवेभिः धनं प्रयच्छसि । हे ऊर्जोनपात् बलस्य नप्तः नपातयितर्वा हे भद्रशोचे स्तुत्य प्रकाशनदेव आदरार्थं पुनराह रयिं धनं विश्ववारं सर्वैर्वरणीयं धनं देहि । अथवा यद्वसूपमास्यस्मभ्यं दातुं तद्धनं गृहादिलक्षणं तच्च रयिं दानार्हं गो- हिरण्यादिकंच देहीत्यपुनरुक्तिः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११