मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ४

संहिता

न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवन्त रा॒यः ।
यं त्राय॑से दा॒श्वांस॑म् ॥

पदपाठः

न । तम् । अ॒ग्ने॒ । अरा॑तयः । मर्त॑म् । यु॒व॒न्त॒ । रा॒यः ।
यम् । त्राय॑से । दा॒श्वांस॑म् ॥

सायणभाष्यम्

हे अग्ने तं मर्तं मनुष्यं स्तोतारं अरातयः अदानशीला द्वेषिणो रायो रयिमन्तो न युवन्त न पृथक्कुर्वन्ति रायो धनाद्वा नयुवन्त यं दाश्वांसं हविर्दातारं त्रायसे पालयसे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११