मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ५

संहिता

यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।
स तवो॒ती गोषु॒ गन्ता॑ ॥

पदपाठः

यम् । त्वम् । वि॒प्र॒ । मे॒धऽसा॑तौ । अग्ने॑ । हि॒नोषि॑ । धना॑य ।
सः । तव॑ । ऊ॒ती । गोषु॑ । गन्ता॑ ॥

सायणभाष्यम्

हे अग्ने विप्र त्वं यं मर्त्यं मेधसातौ यज्ञस्य संभजने हिनोषि प्रेरयसि धनाय गवादिधनलाभाय सयजमानस्तवोती ऊत्या रक्षणेन यागेषु गन्ता भवति गोमान् भवतीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११