मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ६

संहिता

त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।
प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥

पदपाठः

त्वम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । अग्ने॑ । दा॒शुषे॑ । मर्ता॑य ।
प्र । नः॒ । न॒य॒ । वस्यः॑ । अच्छ॑ ॥

सायणभाष्यम्

हे अग्ने त्वं दाशुषे हविर्दत्तवते मर्ताय मर्त्याय यजमानाय रयिं धनं पुरुवीरं बहुभिर्वीरैर्युक्तं प्रयच्छसि अतो नोस्मानपिवस्यः वसीयोधनं अच्छाभिप्राप्तुं प्रणय प्रापय ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२