मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ७

संहिता

उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।
दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥

पदपाठः

उ॒रु॒ष्य । नः॒ । मा । परा॑ । दाः॒ । अ॒घ॒ऽय॒ते । जा॒त॒ऽवे॒दः॒ ।
दुः॒ऽआ॒ध्ये॑ । मर्ता॑य ॥

सायणभाष्यम्

हे जातवेदः जातविद्य जातधन वा अग्ने नोस्मानुरुष्य रक्ष । उरुष्यती रक्षाकर्मेति यास्कः । मापरादाः मापरादेह्यस्मान् । कस्माइति सउच्यते अघायते अघं पापमिच्छते दुराध्ये दुराध्यानाय दुर्विचिन्तकाय हिंसाबुद्धये मर्ताय मनुष्याय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२