मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ९

संहिता

स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।
सखे॑ वसो जरि॒तृभ्य॑ः ॥

पदपाठः

सः । नः॒ । वस्वः॑ । उप॑ । मा॒सि॒ । ऊर्जः॑ । न॒पा॒त् । माहि॑नस्य ।
सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥

सायणभाष्यम्

हे ऊर्जोनपात् बलस्य अन्नस्य पुत्र बलेन मथ्यमानत्वादाज्यलक्षणेनान्नेन प्रवर्धनात् ऊर्जोनपात्त्वं हे सखे सखिवद्धितकारिन् वसो वासकाग्ने सः स्तुत्यत्वेन वा प्रसिद्धस्त्वं जरितृभ्यः गरितृभ्यः स्तोतृभ्यो नोस्मभ्यं माहिनस्य वस्वः माहिनइति महन्नाम महद्धनं उपमासि समीपे मासि निर्मासि प्रयच्छसीत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२