मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १

संहिता

उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

उत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ ऋतायते यज्ञमिच्छते मह्यं मदर्थं उदीराथां उद्गच्छतं तदर्थमाह्वानं यज्ञंवा प्राप्तुं युंजाथां योजयतमश्वैः रथम् । वां युवयोरवो रक्षणं अन्ति अस्मदन्तिके सद्वर्तमानं भूतु भवतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८